प्लवङ्गः

सुधाव्याख्या

प्लवनम् । ‘प्लुङ् गतौ' (भ्वा० आ० अ०) । ‘ऋदोरप्’ (३.३.५७) । प्लवेन गच्छति । ‘गमश्च' (३.२.४७) इति खच् । ‘खच्च डिद्वा’ (वा० ३.२.३८) ॥ डिवाभावे ‘प्लवंगमः' च । ‘प्लवंगमश्च मण्डूके तथा शाखामृगेऽपि च (इति मेदिनी) ॥


प्रक्रिया

धातुः -


प्लुङ् गतौ
प्लु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्लु + अप् - ऋदोरप्‌ 3.3.57
प्लु + अ ­- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्लो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
प्लव् + अ - एचोऽयवायावः 6.1.78
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लव + टा + गम् + खच् - उपपदमतिङ् 2.2.19, गमश्च 3.2.47
प्लव + गम् + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
प्लव + गम् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्लव + ग् + अ - खच्च डिद्वा वक्तव्यः (3.2.38) । वर्तिकम् । टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
प्लव + मुम् + ग - अरुर्द्विषदजन्तस्य मुम् 6.3.67
प्लव + म् + ग - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लवं + ग नश्चापदान्तस्य झलि 8.3.24
प्लवङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
प्लवङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्लवङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लवङ्ग + रु - ससजुषो रुः 8.2.66
प्लवङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लवङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15