कपिः

सुधाव्याख्या

केति । कम्पते । ‘कपि चलने' (भ्वा० आ० से०) । ‘कुण्ठिकम्प्योर्नलोपश्च' (उ० ४.१४४) इतीन् । ‘कपिर्ना सिह्लके शाखामृगे च मधुसूदने' इति विश्वमेदिन्यौ ॥