वानरः

सुधाव्याख्या

वने भवं फलादि । अण् (४.३.५३) । वानं राति । ‘रा आदाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । वानम् । ‘वा गत्यादौ (अ० प० से०) । सम्पदादि क्विप् (वा० ३.३.१०८) । विगमनेऽपि नृणाति बालकम् । ‘नृ नये' (क्र्या० प० से०) । अच् (३.१.१३४) । वा किंचित् नरो वा ॥