दुःस्पर्शा

सुधाव्याख्या

‘दुस्पृश्यते । ‘ईषद्दुर्-' (३.३.१२६) इत खल् ॥


प्रक्रिया

धातुः - स्पृशँ संस्पर्शने


स्पृश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुस् + स्पृश् + खल् - ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3.3.126
दुस् + स्पृश् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दुस् + स्पर्श् + अ - पुगन्तलघूपधस्य च 7.3.86
दु + रु + स्पर्श - ससजुषो रुः 8.2.66
दु + र् + स्पर्श - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुःस्पर्श - खरवसानयोर्विसर्जनीयः 8.3.15
दुःस्पर्श + टाप् - अजाद्यतष्टाप्‌ 4.1.4
दुःस्पर्श + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दुःस्पर्शा - अकः सवर्णे दीर्घः 6.1.101
दुःस्पर्शा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुःस्पर्शा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुःस्पर्शा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68