मधुपर्णिका

सुधाव्याख्या

मधुराणि पर्णान्यम्या: । “पाकक-' (४.१,५४) इति ङीष् । ‘मधुपर्णी तु गम्भार्यां नीलीसंज्ञौषधावपि' (इति मेदिनी) ॥


प्रक्रिया

मधु + जस् + पर्ण + जस् - अनेकमन्यपदार्थे 2.2.24
मधुपर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
मधुपर्ण + ङीष् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
मधुपर्ण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मधुपर्ण् + ई - यस्येति च 6.4.148
मधुपर्णी + कप् - शेषाद्विभाषा 5.4.154
मधुपर्णी + क - हलन्त्यम् 1.3.3
मधुपर्णि + क - केऽणः 7.4.13
मधुपर्णिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मधुपर्णिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मधुपर्णिका - अकः सवर्णे दीर्घः 6.1.101
मधुपर्णिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मधुपर्णिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मधुपर्णिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68