कुली

सुधाव्याख्या

कोलति । ‘कुल संस्त्याने' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । गौरादि (४.१.४१) । णिजन्तेन विगृह्य ‘कः' - इत्यभिधानं मुकुटस्य चिन्त्यम् । णिजन्तस्येगुपधत्वाभावात् अनुपयोगाच्च ॥