क्षुद्रा

सुधाव्याख्या

क्षुणत्ति । ‘क्षुदिर संपेषणे' (रु० उ० अ०) । ‘स्फायि-' (उ० २.१३) इति रक् । यत्तु – ‘क्षुद सम्प्रेरणे' इति धातुरुपन्यस्तो मुकुटेन । स धातुपाठे न लभ्यते । ‘क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोर्हिंस्रामक्षिकामात्रयोरपि' (इति मेदिनी) ॥


प्रक्रिया

धातुः - क्षुदिँर् सम्पेषणे


क्षुद् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
क्षुद् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदि-मदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) उणादिसूत्रम् ।
क्षुद् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षुद्र + टाप् - अजाद्यतष्टाप्‌ 4.1.4
क्षुद्र + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्षुद्रा - अकः सवर्णे दीर्घः 6.1.101
क्षुद्रा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षुद्रा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुद्रा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68