काला

सुधाव्याख्या

कल्यते । ‘कल क्षेपे' (चु० प० से०) । कर्मणि घञ् (३.३.१९) । यत्तु—कर्मणि ‘एरच्’ (३.३.५६) - इति मुकुटेनोक्तम् । तन्न । कलधातोरिवर्णान्तत्वाभावात् । वृद्ध्यभावप्रसङ्गाच्च । ण्यन्तल्वे 'कल्यत' इति विग्रहप्रदर्शनस्यासम्भवाच्च । वर्णत्वाभावान्न ङीष् । 'काला तु कृष्णत्रिवृतामञ्जिष्टानीलिकासु च' (इति मेदिनी) ॥