क्लीतकिका

सुधाव्याख्या

क्रीतकं क्रयोऽस्त्यस्याः । कपिरिकादित्वात् (वा० ८.२.१८) लत्वम् । 'अत:' (५,२, ११५) इति ठन् । ‘क्रीतकं विनिमयः' इति स्वामिमकटौ ॥


प्रक्रिया

क्रीतक + सु + ठन् - अत इनिठनौ 5.2.115
क्रीतक + ठन् - सुपो धातुप्रातिपदिकयोः 2.4.71
क्रीतक + इक - ठस्येकः 7.3.50
क्रीतक् + इक - यस्येति च 6.4.148
क्लीतकिक - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (8.2.18) । वार्तिकम् ।
क्लीतकिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
क्लीतकिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्लीतकिका - अकः सवर्णे दीर्घः 6.1.101
क्लीतकिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्लीतकिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्लीतकिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68