प्रचोदनी

सुधाव्याख्या

प्रचोदयति । ‘चुद संचोदने' (चु० प० से०) । ल्युट् (३.३.११३) ॥


प्रक्रिया

धातुः - चुदँ सञ्चोदने


चुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + चुद् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
प्र + चुद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + चुद् + अन - युवोरनाकौ 7.1.1
प्र + चोदन - पुगन्तलघूपधस्य च 7.3.86
प्रचोदन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
प्रचोदन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रचोदन् + ई - यस्येति च 6.4.148
प्रचोदनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रचोदनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रचोदनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68