कच्छः

सुधाव्याख्या

कचति । ‘कची दीप्तौ' (भ्वा० आ० से०) । बाहुलकाच्छः । यद्वा केन छृणत्ति । ‘छृदिर् दीप्त्यादौ’ (रु० उ० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । ‘अथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाङ्गे पुंसि वाराह्यां चारिकायां च योषिति' (इति मेदिनी) ॥