कान्तलकः

सुधाव्याख्या

काम्यते । ‘कमु कान्तौ (भ्वा० आ० से०) । ‘मतिबुद्धिपूजार्थेभ्यश्च' (३.२.१८८) इति क्तः । लकति । ‘लक आस्वादने’ । अच् (३.१.१३४) । कान्तश्चासौ लकश्च ॥


प्रक्रिया

धातुः - कमुँ कान्तौ , लकँ आस्वादने


कमुँ कान्तौ
कम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कम् + क्त - मतिबुद्धिपूजार्थेभ्यश्च 3.2.188
कम् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काम् + त - अनुनासिकस्य क्विझलोः क्ङिति 6.4.15
कां + त - नश्चापदान्तस्य झलि 8.3.24
कान्त - अनुस्वारस्य ययि परसवर्णः 8.4.58
लकँ आस्वादने
लक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लक् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
लक् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कान्त + सु + लक + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कान्त + लक - सुपो धातुप्रातिपदिकयोः 2.4.71
कान्तलक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कान्तलक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कान्तलक + रु - ससजुषो रुः 8.2.66
कान्तलक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कान्तलकः - खरवसानयोर्विसर्जनीयः 8.3.15