नन्दिवृक्षः

सुधाव्याख्या

नन्दनम् । ‘टुनदि संमृद्धौ' (भ्वा० प० से०) । इन् (उ० ४.११८) । ङीष् (ग० ४.१.४५) वा । नन्द्या वृक्षः ॥


प्रक्रिया

धातुः - टुनदिँ समृद्धौ


नद् - उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
न नुम् द् - इदितो नुम् धातोः 7.1.58
न न् द् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नन्द् + इन् - सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
नन्द् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नन्दि + ङस् + वृक्ष + सु - षष्ठी 2.2.8
नन्दि + वृक्ष - सुपो धातुप्रातिपदिकयोः 2.4.71
नन्दिवृक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नन्दिवृक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नन्दिवृक्ष + रु - ससजुषो रुः 8.2.66
नन्दिवृक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नन्दिवृक्षः - खरवसानयोर्विसर्जनीयः 8.3.15