गणहासकः

सुधाव्याख्या

गणं हासयति । ‘हसे हसने' (भ्वा० प० से०) । ण्यन्तः । ण्वुल् (३.१.१३३) ॥ ‘गणः' इत्यप्यस्य नाम । ‘गणः प्रमथ संख्यौघे चण्डासैन्यप्रभेदयोः' इति रुद्रः ॥


प्रक्रिया

धातुः - हसेँ हसने


हस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गण + अम् + हस् + णिच् - हेतुमति च 3.1.26, उपपदमतिङ् 2.2.19
गण + हस् + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
गण + हस् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गण + हास् + इ - अत उपधायाः 7.2.116
गण + हास् + इ + ण्वुल् - ण्वुल्तृचौ 3.1.133
गण + हास् + ण्वुल् - णेरनिटि 6.4.51
गण + हास् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गण + हास् + अक - युवोरनाकौ 7.1.1
गणहासक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गणहासक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गणहासक + रु - ससजुषो रुः 8.2.66
गणहासक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गणहासकः - खरवसानयोर्विसर्जनीयः 8.3.15