चण्डा

सुधाव्याख्या

चण्डते । ‘चडि कोपे' (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘चण्डा धनहरीशङ्खपुष्प्योस्त्रिष्वतिकोपने । तीव्रेऽपि' (इति मेदिनी) ॥