धनहरी

सुधाव्याख्या

धनं हरति । ‘हरतेरनुद्यमनेऽच्' (३.२.९) । गौरादिः (४.१.४१) । ‘दुष्कुलीना धनहरी विरोकः क्रोधमूर्छितः' इति वाचस्पतिः ॥