खर्जूरः

सुधाव्याख्या

खर्जति । ‘खर्ज व्यथने (भ्वा० प० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.९०) इत्यूरः । ‘खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः' (इति हैमः) ॥