पूगः

सुधाव्याख्या

पवते, पुनाति, वा । ‘पूञ् पवने' (भ्वा० आ० से०) । ‘छापूखडिभ्यः कित्' (उ० १.१२४) इति गन् । मुकुटस्तु - पूज्यते मान्यते सेचनादिना फलद्वारेण, अनेन, वा । घञि कुत्वे पूगः – इत्याह । तन्न । पूजेश्चुरादिण्यन्तत्वेन णिलोपस्य स्थानिवत्त्वेन कुत्वाप्रसङ्गात् । ‘निष्ठायामनिटः' (७.३.५३) इति वार्तिकाच्च । ‘पूगः क्रमुकसंघयोः' इति हैमः ॥