केतकी

सुधाव्याख्या

केतयति । कित निवासे (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ण्वुल् (३.१.१३४) । वा गौरादिः (४.१.४१) ॥


प्रक्रिया

धातुः - कितँ निवासे रोगापनयने व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च


कित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कित् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
कित् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कित् + अक - युवोरनाकौ 7.1.1
केतक - पुगन्तलघूपधस्य च 7.3.86
केतक + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
केतक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
केतक् + ई - यस्येति च 6.4.148
केतकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
केतकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
केतकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68