गुवाकः

सुधाव्याख्या

गुवन्त्यनेन । स्रंसकत्वात् । ‘गुपुरीषोत्सर्गे (तु० प० अ०) । ‘पिनाकादयश्च' (उ० ४.१५) इति साधुः । यत्तु मुकुट – बाहुलकाद्गुणाभाव इति । तन्न । अस्य कुटादित्वात् ॥ गुवाकोऽपि च गूवाकः' इति तारपालः । तत्र बाहुलकाद्दीर्घः ॥