हिन्तालः

सुधाव्याख्या

एत इति । एते नालिकेराद्यास्त्रयो हिंतालेन चतुर्थेन सहिताः खर्जुराद्याश्च चत्वारः । तृणजातीया द्रुमाः । शाकपार्थिवादिः (वा० २.१.६०) । हीनोऽल्पस्तालः। पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

हीन ताल - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
हिन्ताल - पृषोदरादीनि यथोपदिष्टम् 6.3.109
हिन्ताल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हिन्ताल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हिन्ताल + रु - ससजुषो रुः 8.2.66
हिन्ताल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हिन्तालः - खरवसानयोर्विसर्जनीयः 8.3.15