खपुरः

सुधाव्याख्या

खमिन्द्रियमाकाशं वा पिपर्ति । ‘पॄ पालनपूरणयो: (जु० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । ‘उदोष्ठ्यपूर्वस्य' (७.१.१०२) । यत्तु अचि (३.१.१३४) उत्वम् (७.१.१०२) आह मुकुटः । तन्न । ‘इत्वोत्वाभ्या गुणवृद्धी-' (७.१.१०२) इति वार्तिकविरोधात् । यदपि ‘पूरी आप्यायने' (दि० आ० से०) - इत्ययं धातुरुपन्यस्तः । तदपि न । ‘खपूरः' इति रूपप्रसङ्गात् । (‘खपुरः क्रमुके भद्रमुस्तकेऽलसकेऽपि च' इति मेदिनी) ॥