क्रमुकः

सुधाव्याख्या

क्रामति । ‘क्रमु पादविक्षेपे' (भ्वा० प० से०) । बाहुलकादुः । ‘संज्ञायां कन्’ (५.३.७५) । ‘क्रमुकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि । फले कार्पासिकायाश्च पट्टिकालोध्रपूगयोः' (इति मेदिनी) ॥