लक्षणम्

सुधाव्याख्या

ल्युटि लक्षणम् । 'लक्षेरट् च' (उ० ३.७) इति नः । (‘लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्' । मुड्वा' (उ० ३.७) इति लक्ष्मणमपि । 'ज्योतिष्मत्यां च सारस्यां स्त्री, क्लीबे नामचिह्नयोः । स्याद्यक्षे लक्ष्मणः पुंसि सौमित्रौ, श्रीमति त्रिषु' इति रभसात् । लक्ष्मीवति तु पामादित्वात् (५.२.१००) नः । 'लक्ष्म्या अच्च' इति गणसूत्रेणात्वं बोध्यम् ।