शोभा

सुधाव्याख्या

शोभेति । शोभयति । 'शुभ शुम्भ शोभायाम्' (तु० प० से०) । पचाद्यच् (३.१.१३६) । यत्तु मुकुटेनोक्तम् शोभतेऽनया । ‘शुभ शुम्भ शोभार्थौ’ इति निर्देशात् ‘गुरोश्च हल’ (३.३.१०३) इत्यकारः - इति । तन्न । अर्थनिर्देशस्यानार्षत्वात् । यदपि-'गुरोश्च हलः’ इति चकारादप्रत्ययः इति तु वयम्-इति । तदपि न । आकरे तथानुक्तेः । उक्तरीत्या निर्वाहाच्च । (‘शोभा कान्तीच्छयोर्मता’) । शुम्भयतीति शुम्भापि बोध्या ।