द्युतिः

सुधाव्याख्या

‘द्युत दीप्तौ’ (भ्वा० आ० से०) । द्योततेऽनया । – ‘इगुपधात्किः’ इति-मुकुटः । तन्न । ‘इगुपधात्कित्' (उ० ४.१२०) इत्यनेन इन्विधानात्तस्य कित्वातिदेशात् । (‘द्युतिस्तु शोभादीधित्योः') । ङीषि (ग० ४.१.४५) द्युती च द्यूयते वा । ‘द्यु अभिगमने' क्तिन् । क्तिनि (३.३.९४) द्युत्तिः ।