सुषमा

सुधाव्याख्या

सुषमेति । शोभनं समं सर्वमनया । ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः (८.३.८८) इति षत्वम् । एतेन सुषामादित्वात् (८.३.९८) षत्वम् इति स्वाम्युक्तिः परास्ता । उक्तरीत्या निर्वाहे सुषामादित्वकल्पनस्य निर्बीजत्वात् । (‘सुषमं रुचिरे समे । सुषमा तु स्यात्परमशोभायां कालभिद्यपि')