छविः

सुधाव्याख्या

छ्यति । छिनत्त्यसारमिति वा । ‘छो छेदने’ (दि० प० अ०) । ‘छिदिर् द्वैधीकरणे’ (रु० उ० अ०) । ‘कृविघृष्विच्छवि-' (उ० ४.५६) इति क्विन्नन्तो निपातितः । (‘छविस्तु रुचिशोभयोः’) ॥ । एषु भावे वा प्रत्ययाः । शोभेत्यत्र ‘खनो घ च' (३.३.१२५) इति घः । द्युतिरित्यत्र ‘इक् कृष्यादिभ्य:’ (वा० ३.३.१०८) इति दिक् ।


प्रक्रिया

धातुः - छो छेदने


छो क्विन् - कृविघृष्विछविस्थविकिकीदिवि (४.५६) । उणादिसूत्रम् ।
छो + वि - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
छा + वि - आदेच उपदेशेऽशिति 6.1.45
छवि - कृविघृष्विछविस्थविकिकीदिवि (४.५६) । उणादिसूत्रम् ।
छवि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
छवि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छवि + रु - ससजुषो रुः 8.2.66
छवि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छविः - खरवसानयोर्विसर्जनीयः 8.3.15