कान्तिः

सुधाव्याख्या

काम्यते । क्तिन् (३.३.९४) । 'अनुनासिकस्य-' (६.४.१५) इति दीर्घः - इति मुकुटेनोक्तम् । तन्न । 'काम्यते’ इति विगृहीतत्वात्तत्रान्तरङ्गत्वाण्णिङ्-निमित्तवृद्धे सम्भवात् । 'आयादय:- ' (३.१.३१) इति णिङभावे वा बोध्यम् । (‘कान्तिः शोभेच्छयोः स्त्रियाम्')