कलङ्कः

सुधाव्याख्या

कलङ्केति । कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । ‘लकि गतौ’ (चुरादिः) । ‘कर्मण्यण्' (३.२.१) । ('कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च') ॥