कुलिशः

सुधाव्याख्या

‘कुलिर्हस्तो भुजादलः’ इति त्रिकाण्डशेषः । कुलिनः पर्वतान् श्यति वा । 'शो तनूकरणे’ (दि० प० अ०) । ‘आतोऽनुपसर्गे-'(३.२.३) इति कः । कुत्सितमीषद्वा लिशति । 'लिश अल्पीभावे’ (तु० प० से०) 'इगुपध-' (३.१.१३५) इति कः । कुलिशो न स्त्रियां प्रोक्तो दम्भोलौ, ना झषान्तरे ।।