वज्रः

सुधाव्याख्या

व्रजति । व्रज गतौ” (भ्वा० प० से०) । 'ऋज्रेन्द्र-' (उ०२.२८) इति रन् । अस्त्री इति पूर्वोत्तराभ्यामन्वेति । संनिधानाविशेषात् । ’अस्त्रियौ वज्रकुलिशौ' इति संसारावर्ताच्च । वज्रोऽस्त्री’ इति वक्ष्यमाणं तस्यैवानुवादः ('वज्रं स्याद्बालके धात्र्यां क्लीबं योगान्तरे पुमान् । वज्रा स्नुह्यां गुडूच्यां च वज्री स्नुह्यन्तरे स्मृता । दम्भोलौ हीरकेऽप्यस्त्री') ।


प्रक्रिया

धातुः - वजँ गतौ


वज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वज् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२९) उणादिः ।
वज्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वज्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वज्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वज्र + रु - ससजुषो रुः 8.2.66
वज्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वज्रः -खरवसानयोर्विसर्जनीयः 8.3.15