स्वरुः

सुधाव्याख्या

स्वरति । स्वृ शब्दोपतापयोः (भ्वा० प० अ०) । ‘शुस्वृस्निहि' (उ० १.१०) इति उः । (‘स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे') शोभनान्यरूंषि धारा अस्येति (स्वरुस्) सान्तोऽपि ।