भिदुरः

सुधाव्याख्या

भिनत्ति । 'विदिभिदिच्छिदेः कुरच् (३.२.१६२) । यत्तु –‘कर्मकर्तरि चायमिष्यते, इत्यत्र चकारः कर्तरीत्यनुकर्षणार्थ: तेनाकर्मकर्तर्यपि भवति, इति वामनः इति मुकुटेनोक्तम् । तन्न । भाष्येऽस्यार्थस्यादर्शनात् । निष्फलत्वाच्च । भिदिरम्’ इति पाठे तु 'इषिमदि (उ० १.५१) इत्यादिना किरच् ।।