दम्भोलिः

सुधाव्याख्या

‘दम्भु रोधने’ (स्वा० प० से०) । असुन् (उ० ४.१८९) । दम्भसि रोधने अलिः समर्थः । ‘अलं भूषणपर्याप्तिवारणेषु (भ्वा० प० से०) । इन् (४.१९८) । दभ्नोति खेदयति । 'दम्भु दम्भने’ (स्वा० प० से०) औणादिक ओलिरिति वा ।


प्रक्रिया

धातुः - दन्भुँ दम्भने , अलँ भूषणपर्याप्तिवारणेषु


दन्भुँ दम्भने
दम्भ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भ्+असुन् - सर्वधातुभ्योऽसुन् (४.१८९) उणादिः
दम्भ् + अस् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दम्भस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
दम्भरु - ससजुषो रुः 8.2.66
दम्भर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भः - खरवसानयोर्विसर्जनीयः 8.3.15
अलँ भूषणपर्याप्तिवारणेषु
अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अल् + इन् - सर्वधातुभ्य इन् (४.१९८) । उणादिसूत्रम् ।
अल् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दम्भस् + ङि अलि + सु - सप्तमी शौण्डैः 2.1.40
दम्भस् + अलि - सुपो धातुप्रातिपदिकयोः 2.4.71
दम्भोलि - बाहुलकात्
दम्भोलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दम्भोलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भोलि + रु - ससजुषो रुः 8.2.66
दम्भोलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम्भोलिः -खरवसानयोर्विसर्जनीयः 8.3.15