शम्वः

सुधाव्याख्या

शाम्यत्यरीन् । अन्तर्भावितण्यर्थाच्छमेर्वन् (उ० ४.९४) । शं शुभमस्यास्त्यभेद्यत्वात् इति वा । ‘कंशम्भ्याम्-' (५.२.१३८) इति वः । पक्षद्वयेऽपि दन्त्योष्ठ्यः । ‘शम्ब सम्बन्धने चुरादिः (प० से०) । 'शम्बयति सम्बन्ध्नाति शत्रून्' इति विग्रहे तु (शम्बः) पवर्गतृतीयान्तः । शम्बः स्यान्मुसलाग्रस्थ लोहपिण्डलके पवौ । शुभान्विते त्रिषु ' । सम्बयते: (चु० प० से०) विग्रहे तु (सम्बः) दन्त्यादिरपि । ‘तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः’ इत्यूष्मविवेकः ।