अशनिः

सुधाव्याख्या

अश्नाति, अश्यतेऽनेनेति वा । अर्तिसृधृधम्यम्यश्यतिहृभ्यो निः’ (उ २.१०२) । इह 'वज्राशनिः’ इति समुदितमपि बोध्यम् । ‘वज्राशनिं विदुर्वज्रम् इति त्रिकाण्डशेषात् । अथ वज्राशनिर्द्वयोः’ इति नामनिधानाच्च ।