दामोदरः

सुधाव्याख्या

दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिकरण्येऽपि समासः । ‘सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति लिङ्गात् । गमकत्वादिति मुकुटोक्तो हेतुस्त्वप्रयोजकः ॥