कृष्णः

सुधाव्याख्या

कृष्णो वर्णोऽस्यास्तीति । 'कृषेर्वर्णे' (उ० ३.४) इति नगन्तात् 'गुणवचनेभ्यो मतुपो लुक्’ (वा० ५.२.९४) इति लुक् । कर्षत्यरीनिति वा बाहुलकाद्वर्णं विनापि कृषेः ('कृष विलेखने) । (भ्वा० प० अ०) नक् । (‘कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्द्रौपदी नीली पिप्पलीद्राक्षयोरपि । मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलोहयोः’) ॥