माधवः

सुधाव्याख्या

माया लक्ष्म्या धवः । यद्वा मधोरपत्यम् । तद्वंश्यत्वात् (मधोर्हन्तेति वा । 'शेषे’ (४.२.९२) इत्यण् । मा नास्ति धवोऽस्य वा । ('माधवोऽजे मधौ राधे माधवे ना स्त्रियां मिसौ । मधु शर्करावासन्तीकुट्टनीमदिरासु च ॥