केशवः

सुधाव्याख्या

प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । 'केशाद्व: (५.२.१०९) इति वः । केशौ वाति वा । ‘वा गतौ (अ० प० अ०) 'आत-'(३.२.३) इति कः । ‘शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः' इति पाद्मोक्तेः । (यत्तु) हन्त्यर्थाद्वधेः केशिनं हतवान् । अन्येभ्योऽपि दृश्यते (वा० ३.२.१०१) इति ङः । पृषोदरादित्वात् (६.३.१०९) केशिशब्दस्ये कारस्याकारे नलोपे च केशवः इति मुकुटः तन्न । वधधातोरभावात् । वध इत्यादौ वधादेशविधानात् । ’केशवोऽजे च पुंनागे पुंसि केशवति त्रिषु ॥