विष्टरश्रवाः

सुधाव्याख्या

विष्टरे श्रूयते । असुन् (उ० ४.१८९) । विष्टरो वृक्षः । ‘पलाशी विष्टरः स्थिरः’ इति त्रिकाण्डशेषः । तरुश्चात्राश्वत्थोऽभिमतः । ‘अश्वत्थः सर्ववृक्षाणाम् इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥


प्रक्रिया

धातुः - श्रु श्रवणे


विष्टर+ङि+श्रु+असुन् - सर्वधातुभ्योऽसुन् (४.१८९) । उणादिसूत्रम् ।
विष्टर+श्रु+अस् - सुपो धातुप्रातिपदिकयोः 2.4.71
विष्टर+श्रु+अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विष्टर+श्रो+अस् -सार्वधातुकार्धधातुकयोः 7.3.84
विष्टर+श्रव्+अस् - एचोऽयवायावः 6.1.78
विष्टरश्रवस्+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विष्टरश्रवस्+स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विष्टरश्रवस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विष्टरश्रवास् - अत्वसन्तस्य चाधातोः 6.4.14
विष्टरश्रवा +रु - ससजुषो रुः 8.2.66
विष्टरश्रवा + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विष्टरश्रवाः -खरवसानयोर्विसर्जनीयः 8.3.15