अमरकोशः


श्लोकः

निशान्तपस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निशान्त निशान्तम् नपुंसकलिङ्गः निशायामम्यते स्म । क्त कृत् अकारान्तः
2 वस्त्य वस्त्यम् नपुंसकलिङ्गः वसनम् । ति उणादिः अकारान्तः
3 सदन सदनम् नपुंसकलिङ्गः सीदन्त्यत्र । युच् उणादिः अकारान्तः
4 भवन भवनम् नपुंसकलिङ्गः भवन्त्यत्र । युच् उणादिः अकारान्तः
5 आगार आगारम् नपुंसकलिङ्गः अगान् ऋच्छति । अण् कृत् अकारान्तः
6 मन्दिर मन्दिरम् नपुंसकलिङ्गः मन्द्यते सुप्यतेऽत्र । किरच् उणादिः अकारान्तः
7 गृह गृहः पुंलिङ्गः कृत् अकारान्तः
8 निकाय्य निकाय्यः पुंलिङ्गः निचीयते धान्यादिकमत्र । ण्यत् कृत् अकारान्तः
9 निलय निलयः पुंलिङ्गः निलीयतेऽत्र । कृत् अकारान्तः
10 आलय आलयः पुंलिङ्गः कृत् अकारान्तः