वस्त्यम्

सुधाव्याख्या

वसनम् । ‘वस निवासे (भ्वा० प० अ०) । 'वसेस्ति:’ (उ० ४.१८०) । तत्र साधुः। यत् (४.४.९८) । अप स्त्यायति संहतं भवति । स्त्यै ष्ट्यै शब्दसंघातयो’ (भ्वा० प० अ०) । ‘आतश्चोपसर्गे' (३.१.१३६) इति कः । पृषोदरादिः (६.३.१०९) । वष्टि भागुरिः' इत्यल्लोपः — इति स्वामिमुकुटौ । तन्न । तत्रापस्याग्रहणात् । 'कुलोदवसितं पस्त्यम्' इति वाचस्पतिः ।