मन्दिरम्

सुधाव्याख्या

मन्द्यते सुप्यतेऽत्र । ‘मदि स्तुत्यादौ (भ्वा आ० से०) । ‘इषिमदि-' (उ० १.५१) इति किरच् । मन्दिरो मकरावासे मन्दिरं नगरे गृहे’ इति हैमः ।


प्रक्रिया

धातुः - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु


मद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्द् - इदितो नुम् धातोः 7.1.58
मंद् - नश्चापदान्तस्य झलि 8.3.24
मन्द - अनुस्वारस्य ययि परसवर्णः 8.4.58
मन्द् + किरच् – इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहि-मुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (१.५१) । उणादिसूत्रम् ।
मन्द् + इर - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मन्दिर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मन्दिर + अम् - अतोऽम् 7.1.24
मन्दिरम् - अमि पूर्वः 6.1.107