आगारम्

सुधाव्याख्या

अगान् ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । 'कर्मण्यण्' (३.२.१) ॥ आ अग्यते । ‘अग कुटिलायां गतौ’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘विद्यादगारमागारमपगामापगामपि’ इति द्विरूपकोशः ।