निकाय्यः

सुधाव्याख्या

निचीयते धान्यादिकमत्र । ‘चिञ् चयने' (स्वा० उ० अ०) । ‘पाय्यसांनाय्य–’ (३.१.१२९) इति साधुः । (निवासचिति-’ (३.३.४१) इति घञि निकायोऽपि । निकायः सद्मसंघयोः परमात्मनि लक्षे च' इति हैमः ॥


प्रक्रिया

धातुः - चिञ् चयने


चि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नि + चि + ण्यत् - पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु 3.1.129 निपातनम्
नि + चि + य - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नि + चै + य - अचो ञ्णिति 7.2.115
नि + चाय् + य – निपातनात् आयादेशः पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु 3.1.129
निकाय्य -पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु 3.1.129, निपातनात्
निकाय्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निकाय्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निकाय्य + रु - ससजुषो रुः 8.2.66
निकाय्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निकाय्यः - खरवसानयोर्विसर्जनीयः 8.3.15