सदनम्

सुधाव्याख्या

सीदन्त्यत्र । 'षद्लृ' (भ्वा० प० अ०) । अधिकरणे युच् (उ० २.७८) । 'सदनं मन्दिरे तोये' ॥ स्वार्थण्यन्ताद्युचि सादनमपि । ‘सदनं सादनम्’ इति द्विरूपकोशः ॥