निशान्तम्

सुधाव्याख्या

निशायामम्यते स्म । 'अम गत्यादौ (भ्वा० प० से०) । क्त: (३.२.१०२) । ‘रुष्यमत्वर- (७.२.२८) इति नेट् । ‘निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम्' इति वाचस्पतिः । (निशान्तं त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः' इति मेदिनी) ॥