अमरकोशः


श्लोकः

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् । स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रस्फोटन प्रस्फोटनम् नपुंसकलिङ्गः प्रस्फोट्यतेऽनेन । ल्युट् कृत् अकारान्तः
2 शूर्प शूर्पः पुंलिङ्गः, नपुंसकलिङ्गः शूर्पयति, शूर्प्यतेऽनेन वा । अच् कृत् अकारान्तः
3 चालनी चालनी स्त्रीलिङ्गः, नपुंसकलिङ्गः चाल्यते । ल्युट् कृत् ईकारान्तः
4 तितउ तितउः पुंलिङ्गः, नपुंसकलिङ्गः तन्यते वा । उणादिः उकारान्तः
5 स्यूत स्यूतः पुंलिङ्गः सीव्यते स्म । क्त कृत् अकारान्तः
6 प्रसेव प्रसेवः पुंलिङ्गः प्रसीव्यते । घञ् कृत् अकारान्तः
7 कण्डोल कण्डोलः पुंलिङ्गः कण्ड्यते । ओलच् उणादिः अकारान्तः
8 पिट पिटः पुंलिङ्गः पिटति । कृत् अकारान्तः
9 कट कटः पुंलिङ्गः कटति । अच् कृत् अकारान्तः
10 किलिञ्जक किलिञ्जकः पुंलिङ्गः किल्यतेऽनेन । कृत् अकारान्तः